श्री भुवनेश्वरी पंचरत्न स्तुति

नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः । कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Sun, 26-Mar-2023 Hindi-gujarati

नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।

कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥

सच्चिदानन्दरूपिण्यै संसारारण्यै नमो नमः ।

पञ्चकृत्यै विधात्र्यै च भुवनेश्वर्यै नमो नमः ॥ २ ॥

विद्या त्वमेव ननु बुद्धिमतां नराणां ।

शक्तिस्त्वमेव किल शक्तिमतां सदैव ।

त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा

मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ३ ॥

त्राता त्वमेव मम मोहमयात् भवाब्धेः

त्वामम्बिके सततमेव महार्तिदे च ।

रागादिभिर्विरचिते विततेऽखिलान्ते

मामेव पाहि बहुदुःखहरे च काले ॥ ४ ॥

नमो देवि महाविद्ये नमामि चरणौ तव

सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।